पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
श्रीवेङ्कटाचलमाहात्म्यम्


एतान्युपवनान्यद्भः स्युर्नारायणवेक्झटैौ।
वराहवपुषा पूर्व स्वीकृतवान्मधुद्विषा ॥ १३

वराहक्षेत्रमित्यायैः कीर्तितोऽयं महीधरः ।
सुवर्णमुखरीतीरे विख्याते वेङ्कटाचले॥ १४

निवसत्यच्युतो नित्यं अव्धीन्द्रतनयाऽन्वितः ।
तस्मिन् गिरौ श्रिया सार्ध वसन्तं वेइटाधिपम्॥ १५

सेवन्ते सिद्धगन्धर्वमुनिमनवदानवाः।
तसिन् विन्यतचित्तानां भक्तानां पुरुषोत्तमे ॥ १६

बाछितान्याशु सिद्धन्ति नश्यन्ति त्रिपदोऽर्जुन !
ये सरन्ति जगनर्थ वेङ्कटाद्रिनिवासिनम् ॥ १७

निरस्तदोषास्ते यान्ति शाश्वतं पदमव्ययम् ।
अर्जुनः-- 'वेङ्कटाद्रौ महापुण्ये सुरासुरनमकृतः ॥ १८

कथं प्रादुरभूद्देवो भगवान् कमलापतिः ।
कस्य वा कृतिनतत्र प्रसन्नो निजमदूतम् ॥ १९

रूपं प्रकाशयाञ्चक्रे भुक्तिमुक्तिफलप्रदम्।
विश्णोदेवादिदेवस्य महिमानं महामुने !
श्रोतुमिच्छामि तत्वेन तन्मे कथय विस्तरात्’ ॥ २०

श्रीवेङ्कटाचलवासिभगपदं भघवर्णनम्

भरद्वाज --

‘शृणु वेङ्कटनाथस्य महिमानं समाहितः ।
विस्तरेण समाख्यातुं ब्रह्मणाऽपि न शक्यते ॥ २१

धन्योऽसि देवदेवस्य माहात्म्यं मधुविद्विषः ।
यद्भक्तियुक्ताऽभूत्तात ! श्रोतुं मतिररिन्दम! ॥ २२