पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९१
श्रीवेङ्कटाचलमाहात्म्यम्


सङ्गमे सरितोस्तत्र कृतत्राना नरोत्तमाः।
समग्रमश्वमेधानां दशानं प्राप्नुयुः फलम् ॥ ४१

शङ्कतीर्थवर्णनम्

तत्र व्याप्तपदाऽख्यायाः तटे लोकमलापहे ।
अनघं सर्वपापप्ने शीर्थ विराजते ॥ ४२

ब्रह्मर्षिनियतावासं सुरगन्धर्वसेवितम् ।
दर्शनम्नानपानाचैः अमितानन्ददायकन ॥ ४३

तत्रऽते भगवानीशः शङ्केशो नाम फाल्गुन !
शङ्कनानि मुनीन्द्रेण लिङ्गरूपं प्रतिष्ठितम् ॥ ४४

ये तत्र तीर्थे सुझाताः पश्यन्त वृषवाहनम् ।
दशाश्वमेधजं पुण्यं लब्ध्वा यान्ति सुरालयम् ॥ ४५

युक्ता तया व्याघ्रपदाभिधानया गत्वा ततो यजनसम्मितां भुवम् ।
ययौ मुनीद्धृषभाचयन्तिकं संसेव्यमाना शुभ निर्मलोदका।। ४६

इति श्रीस्कान्दपुराणे तीर्थव्रण्डे श्रीवेङ्कटाचलमाहारये अगस्तीर्थादि-


वर्णनं नाम षष्ठोऽध्यायः ।


*****



अथ सप्तमोऽध्यायः



सुवर्णमुखर्या कल्यानदीसङ्गमः

भरद्वाज. --
सुवर्णमुखरीं तत्र सङ्गता मङ्गलप्रदा ।
कश्या नाम नदी पुण्य कालिदी जाह्नवीमित्र ॥ १

वृषभाचछसम्भूता तीर्थराजविराजिता।
नदीनामुतम कल्या कर्पौघविनाशिनी ॥ २