पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९३
श्रीस्कान्दपुराणे (तृतीयभागे) षष्ठोऽध्यायः


सङ्गता वेणया पुण्या सुवर्णमुखरी नदी।
गिरिदुर्गममार्गेण ययावुत्तरवाहिनी ॥ ३०

मध्यगेन महीध्राणां मार्गेण विषमेण सा ।
गत्या विरेजे तटिनी योजनानां चतुष्टयम् ॥ ३१

पूर्वतस्तस्य देशस्य विषये साधुयोजने ।
उदक्कूले महानद्या प्रावाहिन्या मनोहरे ॥ ३२

अगस्स्येश्वरनामाऽऽस्ते स्यातं लिङ्गं पुरद्विषः ।
स्मरणं देवमर्थानां समस्ताघनिवारणम् ॥ ३३

तत्र स्ना महानद्यां ये नरा नियतेन्द्रिय। ।
पश्यन्ति पार्वतीनाथ अगस्थेन प्रतिष्ठितम् ॥ ३४

अनेकैः पूर्वजननैः आर्जिनं पापसञ्चयम् ।
ते निरस्य सुरावासे मोदन्ते कालमक्षयम् ॥ ३५

ततः सदसुखी भूखा सुवर्णमुखरी यय ।
योजनायेंमिंद देशे तीर्थसङ्गसमन्विता ॥ ३६

सुवर्णमुख्य व्यघ्रपदाह्वयनदासङ्गमः

तस्मिन् देशे तु हिन्तारतालमाछमनोरमे ।
गता सुवर्णमुखरी नदी व्याघ्रपदाह्वया ॥ ३७

दुर्वारभूरिदुरितविनिवारणपेशल ।
नीरन्ध्रतीरखनीखनमण्डलमण्डिता ॥ ३८

सिद्धगन्धर्वललन"लगहनशालिनी ।
तपस्विकन्यानिः क्षिप्तवलिपुष्पविराजिता ॥ ३९

हंसकारण्डवौच्छकुलफलाहकुला ।
प्राक्प्रवाहा समागत्य शैलान्तरगतध्वना ॥ ४०