पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
श्रीवेङ्कटाचलमाहात्म्यम्


सुवर्णमुखरीतीरे गोपादप्रमितां भुवम् ।
दत्वा सर्वमहीदानात् यत्फलं तदवाप्नुयात् । ५१

धेनु सवस्त्रालङ्कार सुवर्णमुखरीतटे ।
दत्वा विप्राय विधिवत् याति ब्रह्म सनातनम् ॥ ५२

पुण्यकालेषु दानानि विधेयान्यखिलम्यपि ।
इहामुत्र फलप्राप्यै सुधर्णमुखरीतटे ॥ ५३

जपो होमतपो दानं पितृकर्म सुरार्चनम् ।
कृतं भवेच्छतगुणं सुवर्णमुखरीतटे ॥ ५४

अन्यते कथयिष्यामि विधेयं व्रतमुत्तमम् ।
सुवर्णमुखरीतीरे प्रतिरै सुखार्थिभिः ॥ ५५

मेघकाले रविकरैः तिरोधानमुपागतः।
यदुदेति मुनिः श्रीमान् मित्रावरुनन्दनः ॥ ५६

तमिन् दिने ये नियताः कानमस्यां प्रकुर्वते ।
तैः कल्पव सुरावासे स्थायते कुरुनन्दनः । ५७

सदाऽगस्यय यदूपं सुवर्णेन विनिर्मितम् ।
विधिना ददते पार्थ ! ते यान्ति ब्रल शाश्वतम् ॥ ५८

अजं नः-- विधिना केन कर्तव्यं त्रतमेतन्महामुने!।
तन्ममाचक्ष्व सकलं जिज्ञासोस्तु महात्मनः ' । ५९.

अगस्त्यप्रतिमादनविधिः

भरद्वाज -- ‘अगस्त्यस्योदयदिनं ज्ञाश्च नियतमानसः ।
स्वशक्त्या कारयेद्पं तय हे हेम्ना महामुनेः ॥ ६०

सुवर्णभास्वरच्छायं जटचन्धमनोहरम् ।
दधानं कपझाभ्यां अक्षमालां कमण्डलुम् ॥ ६१