पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
श्रीस्कान्दपुराणे (तृतीयभागे) पञ्चमोऽध्यायः



तस्वेष्विवारमनस्तवं चाध्यायो यजुष्विव ।
अनर इव नागेषु हिमाचल इदिषु ॥ ३९

पत्रिक्षेत्रमिव क्षेत्रष्विन्द्रियेष्वव मानसम् ।
नदीष्वपि च सर्वासु सुवर्णमुखरी वरा ॥ ४०

नियं सारेलमङयत् ीर्तयेन्मनसाऽर्चयेत् ।
शुद्धिक्षेमशिखापेक्षी सुवर्णमुखरीं शुभाम् ॥ ४१

'अगस्याचलप्तभूतां दक्षिणोदधिगामिनीम् ।
समस्तपापहन्त्रीं च सुवर्णमुखी श्रये ॥ ४२

महापातकविप्लुटं गत्र मम तवोदकैः ।
क्षालयामि जगद्धात्रि! श्रेयस योजयस्व माम् ॥ ४३

इति सूक्तद्वयं सम्यगुच्चार्य नियतो नरः ।
सुवर्णमुखरीतीये स्नाया शुद्धः प्रमोदते ॥ ४४

ब्रह्मणा निर्मिता पूर्वं अगस्स्येन समाहृता।
स्वयं मन्दाकिनी मूर्ती सुवर्णमुखरी वरा ॥ ४५

एवंप्रभावा दिव्येयं कीर्तनीया शुभार्थिभिः ।
मनसा भक्तियुक्तेन सा नतव्या शुभकाङ्किभिः ॥ ४६

सोमसूर्योपरागेषु स्नानदानादिकं कृतम् ।
स्यादपेयफलं पार्थ ! सुवर्णमुखरीतटे॥ ४७

सन्नन्तावयने पुण्ये व्यतीपातेऽथ वासरे ।
सुवर्णमुखरीतीने कुलकोटिं समुद्धरेत् ॥ ४८

जन्मभं जन्मदिवसे सुवर्णमुखरीजले ।
स्त्रास्त्र विधिवदाप्नोति क्षेमारोग्यसुखश्रियः ॥ ४९

दु स्वमविन्नजं भूतप्रहदु थानज तथा ।
सुवर्णमुखरीतये नवा तरति किल्बिषम् ॥ ५०