अथ चतुर्थोऽध्यायः
'नद्युपादनाय अगस्त्यं प्रति अशरीर्मुक्तिः'
भरद्वाज. --
स कदाचिन्नुनिचरः कृतपैर्वाह्निकक्रियः।
विवेश देवतागरं समाराधयितुं शिवम् ॥ १
अभ्यरूपा वाग्देवी तत्राश्रावि महात्मना ।
तेनाङ्गनोपपन्नेन व्यक्तवर्णसमुज्ज्वला ॥ २
आकाशवाण्युवाचैन अगस्त्यं जपतां वरम् ।
आकाशवाणी--
‘नदीहीनो झयं देशः प्रसिद्धोऽपि न शोभते ॥ ३
ज्ञानविज्ञानविमुखः साकर इव भूसुरः।
दीक्षेव दक्षिणाहीना ज्योस्त्रहीनेव शर्वरी ॥ ४
न विभाति नदीहीना पृथ्वीयं भूसुरोत्तम!।
प्रवर्तय नदीं काचित् लोकानां हितकाम्यया ॥ ५
अगाधदुरितोद्धृतभीतिमोचनशलिनीम् । ।
हितमेतत्सुरौघानां एतन्मुनिवरार्थितम् ॥ ६
भद्रमेन्मनुष्याणां पूतदाचर सुत्रत ! ।।
देवानामृषिवर्याणां जनानां हितावहम् ।
पापपङ्कप्रशमनीं प्रवर्तय म्हानदीम् ॥ ७
भरद्वाज -- तदाप्ये वचो विप्रः क्षणं चिन्तपरायणः ।
समाध्य देवतापूजी बहिर्वेद्यमुपाविशत् ॥ ८
आनाययामास तदा तदाश्रमगतान् मुनीन् ।
तेषामकथयच्चासौ दिल्ययाणीरितं वचः ॥ ९