पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
श्रीवेङ्कटाचलमाहात्म्यम्



यथाहं भीमसेनादीन् भ्रातृनामन्त्र्य पण्डवः ।
कृतस्स्त्ययनो भयैः निर्यये धरणीसुरैः ॥ ४१

पौराणिका ज्यौतिषिकः भिषजो धरणीसुराः।
अनुजग्मुर्रत्यगणः शिल्पिनः सूतमागधाः ॥ ४२

युधिष्ठिराज्ञया तस्य भगयागक्षमं धनम् ।
गृहीत्वाऽनुययुः स्निग्धाः सभ्याः केशाधिकारिणः॥ ४३

अर्जुनस्य गङ्गादितीर्थगाहनपूर्वकं सुवर्णमुखर्यागमनम्


स राजपुत्रः प्रथमं प्राप्य भगीरथीं नदीम् ।
गाद्वरं प्रयागञ्च सिषेवे काशिमपि ॥ ४४

पश्यंस्तीर्थानि जाह्न्याः ततीरेशन्तर्मना।
आससाद समुत्तुङ्गकल्लले दक्षिणोदधिम् ॥ ४५

महानदीं महापुण्यां प्रसिद्धं पुरुषोत्तमम् ।
सिंहाचलश्च संवीक्ष्य प्राप्तवान् कृतकृत्यताम् ॥ ४६

ततो ददर्श कौन्तेयः पुण्यां गोदावरी नदीम् ।
समस्तदुरितत्रातशातनोत्तीर्णभैरवाम् ॥ ४७

कृताभिषेकततोयैः विधिवत् पाण्डुनन्दनः।
प्रमोदं विविधैर्दानैः अकरोद्भूसुवर्णकैः ॥ ४८

नदीं मलयहाख्याश्च दृष्ट मदं ययौ शुभम् ।
ततः समाससादासौ कृष्णवेणी सरिद्वराम् ॥ ४९

शिवस्य नियतावासं चतुर्वारसमन्वितम् ।
नानीर्थगणाकीर्णं श्रीपर्वतमवैक्षत ॥ ५०

नदीं पिनाकिनीं तीव्र गत्र देवर्षिसेवितम् ।
नारायणप्रियवासं अपश्यद्वेङ्कटाचलम् ॥ ५१