पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
श्रीवेङ्कटाचलमाहात्म्यम्


सोऽपि तस्मिन् महातीर्थं पीत्वा जलमनुत्तमम् ।
केशवारस्य महापापी विमुक्तो ब्रह्महत्यय ॥ ३७

ॐथयः--

कस्य पुत्रः केशवाख्यः कथं प्राप्तो भयन्करम् ।
ब्रशहत्यमतिक्रूरां आस्माकं बक्तुमर्हसि ॥ ३८

श्रीसूतः:-

गणिकालम्पटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः

तुङ्गभद्रतटे रम्ये गन्धैर्वेदपसेविते ।
भग्रहारो महानासीत् 'वेदाढ्य' इति नामतः ॥ ३९

तसिन् वेदपुरे रम्ये ब्राह्मणा वेदपारगाः ।
शब्दशस्त्रपराः सर्वे ज्योति:शास्त्रप्रवर्तकः ॥ ४०

मीमांसातर्कशास्त्रज्ञाः सर्वे वेदान्तवादिनः।
धर्मशास्त्रेषु निरताः अनदानपराः सदा ॥ ४१

पुत्रवन्तश्च ते सर्वे क्षग्रहरे महजनाः ।
वेदाढणेऽप्यपहरे वै पझनाभ इति श्रुतः ॥ ४२

तस्य पुत्रः केशवाच्यः सर्वकर्मबहिष्कृतः ।
मातरं पितरं त्यक्ता भार्यामपि पतिव्रताम् ॥ ४३

सर्वदा गणिकसक्तो वेश्यागारं विवेश ह ।
दिनद्वये च तां वेश्यामनुभूय द्विजस्ततः ॥ ४४

निष्कद्वयं प्रदातये हस्ते दत्वा गतः सुखम् ।
वेश्यया चधनस्त्यक्तः तत्संयोगैकतत्परः ॥ ४५

इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ।
दत्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ॥ ५६