स्तेयायुने सुवर्णानां तत्संसर्गाओ कोटेयः।
शीनिं विलयमायान्ति तस्य तीर्थस्य सेवया ॥ १७
यानि निष्कृतिहीनानि पापानि विविधानि च ।
तानि सर्वाणि नश्यन्ति तीर्थस्यास्य निषेवणात् ॥ १८
इदं तीर्थं महापुण्यं भगवत्पादनिस्मृतम् ।
कुष्ठादिरोगयुक्तो यः प्रत्यहञ्च पिबेदिदम् । १९
सोऽपि रोगविहीनः सन् विष्णुलोकश्च गच्छति ।
भगवान् शङ्करो देन रहस्यानुभवे पुरा ॥ २०
प्रर्वत्यै कथयामास तस्य तीर्थस्य वैभवम् ।
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ॥ २१
कटाहतीर्थमहिमश्रद्धाशूःयानां महनकप्राप्तिः
अर्थवादोऽयमिति च न वक्तव्यं कदाचन ।
येऽर्थवादमिदं ज्ञेयुः तेषां वै नास्तिकामनाम् ।। २२
जिह्वाग्ने पशु तनं प्रक्षिपन्ति च किङ्कराः ।
तस्मात्क्यहीर्थन्तु सेवनीयं प्रयत्नतः ॥ २३
सर्वदुःखप्रशमनं अपवर्गफप्रदम् ।
यत्र पीत्वा नरो भक्त्या सर्वान् कमानवाप्पुयात् । ॥ २४
एवमुक्तू। महाभागः कशं त्रैलोक्यपावनीम् ।
सम्प्राप्तो नारदः श्रीमान् सूत! पौराणिकोत्तम ! ॥ २५
सनेपतश्च भगवान् नैमिशे बुक्तवान् खछ ।
इदानीं श्रोतुमिच्छामः कटाहस्य च वैभम् ।
सुबितरेण चास्माकं वद सूत ! कृपावशात् ॥ २६