पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
श्रीवेङ्कटाचलमाहात्म्यम्

सुवणे तत्र दातव्य कन्यादानं विशेषतः ।
वृषभरस्थे रवौ विप्राः ! द्वादश्यां हरिवासरे ॥ १४

शुक्ले वाऽप्यथ कृष्णे वा भौमेनापि समन्विते ।
पाण्डुतीर्थं समायान्त गलादं नि जगत्रये ॥ १५

तत्र स्नात्वा च गां दत्वा मुच्यते प्रतिबन्धकत् ।
आश्वयुक्छुक्लपक्षे च सप्तम्यां भानुवासरे ॥ १६

उत्तराषादयुक्तायां तथा पापविनाशनम् ।
उत्तराभाद्रयुक्तायां द्वादश्यां वा समागतः ॥ १७

सारस्यामशिनं दत्वा स्नात्वा च विधिपूर्वकम् ।
मुच्यते सर्वपपैश्च जन्मकोटिशतोद्भवैः ॥ १८

धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।
आयान्ति सर्वथा न स्वामिपुष्करिणीजले ॥ १९

तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः।
यस्य जन्मसहस्त्रेषु पुष्यमेवार्जितं पुरा ॥ २०

तस्य स्नानं भवेद्वप्रः ! नान्यस्य त्वकृतात्मनः ।
विभवानुगुणं दानं कार्यं तत्र यथाविधि ।
सालग्रामशिलादानं गां दद्याच विशेषतः ॥ २१

पुराणश्रवणस्य विशेषतः प्रशस्यवर्धनम्



ये धृषन्त कथां विष्णोः सदा भुवनपावनीम् ।
ते वै मनुष्यलोकेऽस्स्न् िविष्णुभक्ता भवन्ति हि ।। २२

यद्यशक्तः सदा श्रेतुं कथां भुवनपवनीम् ।
मुहूर्त वा तदर्थं वा क्षणं वा विष्णुसकथाम् ॥ २३

यः शृणोति नरो भक्त्या दुर्गतिनस्ति तस्य हि ।
यलं सर्वयज्ञेषु सर्वदानेषु यमफलम् | २४