पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
श्रीवेङ्कटाचलमाहात्म्यम्


नन्ति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे ।
तस्य तीर्थस्य माहात्म्यं को वेति ? भुवनत्रये॥ १०

घोणतीर्थस्नानविमुखानां महदोषवर्णनम्

तस्यायुष्यतमं तीर्थं घोणतीर्थ द्विजोत्तमाः ।
आरामोच्छेदकं क्रूरं कन्यातुरगविक्रयम् ॥ ११

घोणस्नानपरित्यक्तं तमाहुर्बघतुकम् ।
देवद्रव्यापहतरं तथा दत्तापहारकम् ॥ १२

घोणत्रानपरित्यक्तं तमाहुर्बक्लयतुकम् ।
तटाकसेतुभेत्तारं परस्त्रीसङ्गलोलुपम् ॥ १३

घोणत्रानपरित्यक्तं तमाहुः स्तेथिनं बुधाः ।
ददामी' ति द्विजायोक्ता पश्चाद्यो नास्तिकोऽधमः ॥ १४

घोणस्तानपरित्यक्तं सुरापं तं विदुर्युधाः ।
गुरुविप्रजनद्रेयं आरमस्तुतिपरायणम् ॥ १५

घोणस्तानपरित्यक्तं तमाहुः स्तेष्ठिनं बुधाः।
असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम् ॥ १६

घेणस्नानपरित्यक्तं तमाहुः स्तेर्बिन द्विजाः।
पितृदोषान्नदातारं मातापितृविरोधिनम् ॥ १७

घोणन्ननपरित्यक्तं तमाहुः स्तेयिन बुधः।
परस्त्रीसङ्गनिरतं भ्रातृभार्यारतिप्रियम् । ॥ १८

घोणकानपरित्यक्तं तमाहुर्गुरुतल्पगम् ।
चण्डालभाषिणं विी सदैवदर्भपाणिकम् ॥ १९

घोणानपरित्यक्तं तत्संसर्गे तु पञ्चमम् ।
रजस्वलाश्वचण्डालध्वनिं श्रुत्वाऽन्नभोजिनम् । २०