पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
अथ पञ्चदशोऽध्यायः


जाब/रिलतीर्थमाहात्म्यवर्णनम्



श्रीमूतः--
भो भो तपोधनाः! सर्वे नैमिशारण्यवासिनः।
वेङ्कटाद्रौ महापुष्ये सर्वपातकनाशने ॥ १

ततो जमालिनीतीर्थस्य महायं वर्णयाम्यहम् ।
दुराचारामिधो यत्र कावा मुक्तोऽभवद् द्विजाः! ॥ २

भनय

दुराचाराभिधः कोऽसौ सूत! तत्त्वार्थकोविदः।
विश्व पापं कृते तेन दुराचरेण वै मुने ! ॥ ३

कथं वा पातकान्मुक्तः तीर्थेऽस्मिन् सनवैभवात् ।
एतच्छुशूषमाणानां विस्तराद्द नो मुने!॥ ४

कावेरीतीरवासिचारादद्विजोदन्तः

श्रीसूतः मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ।
जाबालिनीर्थस्नानेन यथा मुक्श्च पातकात् ॥ ५

दुराचराभिधो विप्रः कावेरीतीरमाश्रितः।
कश्चिदास्ते द्विजः पापी ठरकर्मरतः सदा ! ॥ ६

अक्षौश्च सुरपैश्च स्तेयिभिर्गुरुतल्पगैः ।
सदा । संसर्गदुष्टोऽसौ है: साकं न्यवसद् द्विजाः !॥ ७

महापातकसंसर्गदोषेणास्य द्विजस्य वै।
ब्राह्मण्यं सकलं नष्टं निशेषेण द्विजोत्तमाः ! ॥ ८