पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
अथ द्वादशोऽध्यायः


दानहंसपावनः



ऋषय -- भगवन् सूत ! सर्वज्ञ ! वेदवेदान्तकोविद ! ।।
दानानि कस्मै देयानि दानकालश्च कीदृशः
कश्च तमतिगृहीयात् सर्वं न वक्तुमर्हसि ॥ १

औसून - महापुण्यप्रदे क्षेत्रे वेङ्कयस्ये द्विजोत्तमः !।
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ॥ २

तस्मै दानानि देयानि स तारयति पण्डितः ।
बाक्षणः प्रतिगृहीयात् वर्जयित्वा त्ववर्णकम् ॥ ३

घण्डय पुत्रहीनस्य दम्भाचाररतस्य च।
वेदविद्वेषिणचैव द्विजविद्वेषिणस्तथा ॥ ४

स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ।
परदाररतस्यापि परद्रव्यरतस्य च ॥ ५

गायकथापि विप्रस्य दत्तं भवति निष्फलम्।
असूयाविष्टमनसः कृतन्नस्य च मायिनः ॥ ६

ज्ञानशन्यस्य विप्रस्य दत्तं भवति निष्फलम् ।
नित्ये याच्यापरस्यापि हिंसयाबलस्य च ॥ ७

नामविक्रयिणश्चैव वेदविक्रयिणस्तथा।
स्मृतिविक्रयिणश्चैव धर्मविक्रयिणस्तथा ॥ ८

पेरोफ्तापशील्य दत्तं भवति निष्फळम् ।
ये केचित्पापनिरता निन्दिताः सुकृतैतथा ॥ ९

न तेभ्यः प्रतिग्रहीयत् न देयं वापि किञ्चन ।
सकर्मनिरतयैव श्रोत्रियायाऽहिताग्नये ॥ १०