पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
श्रीस्कान्दपुराणे दशमोऽध्यायः


नमोऽस्तु तेऽभीष्टमुखमदाय
नमो नमो भक्तमनोरमाय ॥ ७६

नमो नमस्तेऽखिलकरणाय
नमऽस्तु ते मन्दरधारकाय ।
नमोऽस्तु ते यज्ञवराहनाने
नमो हिरण्याक्षविदारकाय ॥ ७७

नमोऽस्तु ते वमनरूपभाजे
नमोऽस्तु ते क्षत्रकुलान्तकय ।
नमोऽस्तु ते रावणमदेनय
नमोऽस्तु ते नन्दसुताग्रजाय ॥ ७८

नमस्ते कमलाकान्त ! नमस्ते सुखदायिने ।
श्रितार्तिनाशिने तुभ्यं भूयो भूयो नमो नमः ॥ ७९

विप्रेण संस्तुतो देवो भगवान् भक्तवत्सलः ।
वास्सल्येनाब्रवीद्वाक्यं श्रीनिवासो दयानिधिः ॥ ८०

'तात ! तुष्टोऽस्मि भद्रं ते स्तोत्रेण महता द्विज!।
सर्वभोगसमायुक्तः पुत्रपौत्रादिभिर्युतः ॥ ८१

इह लोके सुखं प्राप्य देहान्ते मुक्तिमाप्नुहि।
इयुक्त्वा भगवान् विष्णुः तत्रैवान्तरधीयत ॥ ८२

एवं वः कथितं विप्राः पापनाशनवैभवम् ।
ततीरे भूप्रदानस्य माहात्म्यच्चापि वर्णितम् ॥ ८३

इति श्रीस्कन्दपुराणे श्रीवेङ्कटचछमाहात्म्ये पापविनाशनतीर्थे


भूदानफलनुवर्णनं नाम दशमोऽध्यायः।।


पf७ 8.

</पोएम्>