पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
श्रीस्कान्दपुराणे दशमोऽध्यायः


स भद्रमतये विप्राः ! धीमांस्तां याचितां भुवम् ।
दतवान् हरिभक्ताय श्रोत्रिभय कुटुम्बिने ॥ ६०

सुघोषो भूमिदानेन कोटिवंशसमन्वितः ।
प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ॥ ६१

भद्रमतेः पापनाशनतीरे भूदनार्थं वेङ्कटाद्रिगमनम् ।

विप्रो भद्रमतिश्चापि पुत्रदारसमन्वितः ।
गते वेक्कटशैलेन्द्र सुरासुरनमस्कृतम् ॥ ६२

गन्धर्वयक्षशैलादिसेवितं मेरुपुत्रकम् ।
वैकुप्यदागतं दिव्यं क्रीडाचलमनुत्तमम् ॥ ६३

तत्र स्वामिसरस्तीये निर्मले पावने शुभे।
दारपुत्रादिसंयुक्तः स्नात्वा सङ्कल्पपूर्वकम् ॥ ६४

नपश्चमतटे वेतसूकरं वसुधाधरम् ।
नव तत्र विधानेन श्रीनियासाIऽलये गतः ॥ ६५

तत्र ब्रम्लादिदेवैश्च सेवितं वेङ्कटेश्वरम् ।
दृष्टवान् सहपुत्रायैः विष्णुभक्तो महामतिः ॥ ६६

भक्तया प्रणम्य देवेशे श्रीनिवासं कृपानिधिम् ।
पुत्रदारादिसंयुक्तः पापनाशनमाययौ ॥ ६७

तत्र स्नात्वा विधानेन तृतधर्मादिसक्रियः ।
कस्मैचित् विष्णुभक्ताय श्रोत्रियाय महामतिः ।
विष्णुबुद्धया स प्रददौ भूदान मोक्षदं शुभम् ॥ ६८

भूदनप्रभावेण भगवत्साक्षात्कारः

नदा प्रादुरभूद्देवः शङ्कचक्रगदाधरः ।
विनतानन्दनारूढं वनमानविभूषितः ॥ ६०