पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
श्रीवेङ्कटाचलमाहात्म्यम्


भूतानि सर्वशास्त्राणि तेन विप्रेण धीमता ।
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥ ४

अभवंस्तस्य षट् पत्न्यः कृता सिन्धूर्यशोवती ।
कामिनी मालिनी चैव शोभा चैव प्रकीर्त्तिताः ॥ ५

तासु पनीषु तस्याऽसीत् पुत्राणाश्च शतद्वयम् ।
ते सर्वे तस्य पुत्राद्याः क्षुधया परिपीडितः ॥ ६

अकिञ्चनो भद्रमतिः क्षुधार्तानामजान् प्रियान् ।
पश्यन् प्रियाः क्षुधार्ताश्च विललापाऽकुलेन्द्रियः ॥ ७

धिक् जन्म भाग्यरहितं धिक् जन्म धनवर्जितम् ।
धिक् जन्म कीर्तिरहितं धिक् जन्माऽतिथ्यवर्जितम् ।। ८

विक् जन्माऽचाररहितं धिक् जन्म ज्ञानवर्जतम् ।
धिक जन्म यनरहि धिक् जन्म सुखवर्जितम् ॥ ९

धिक् जन्म बन्धुरहितं विक् जन्म प्यातिवर्जितम् ।
नरस्य बहूपयस्य त्रिकू जन्मैश्वर्यवर्जितम् ॥ १०

अह गुणाः सौम्यता च विद्वता जन्म संकुले ।
दारिद्याबुधिमम्नस्य सर्वमेतन्न शोभते ॥ ११

विप्रः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा। ।
शिष्याश्च सर्वे मनुजाः त्यजन्यैश्वर्यवर्जितम्॥ १२

इति निश्चित्य मतिमान् धीरो भद्रमतिर्द्रिजः ।
चण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥ १३

दरिद्रः पुरुषो लोके शववल्लोकनिन्दतः।
अहो सम्पत्समायुक्तो निष्पुरो वाऽप्यनिष्टुरः ॥ १४

गुणहीनोऽपि गुणवान् मूर्वा वापि स पण्डितः।
निष्पैरो वा गुणी वापि धर्महीनोऽथ वा नरः ॥ १५