पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
श्रीस्कान्दपुराणे नवमोऽध्यायः



अतिथीन् पूजयामास यथा समुफगतान् ।
एवं हि सुमहान् कालो व्यतिचक्राम तस्य वै॥ ४६

इदमतये सुमत्याख्यविप्रप्रकाशितकर्मोनुष्ठानक्रमः ।

अथाऽश्रममगम्य सुमतिर्नाम नामतः ।
द्विदः मर्गकुलोद्भूतः सत्यवादी जितेन्द्रयः ॥ ४७

स्वर्गलैर्मुनिमाराध्य तोषयिक फलादिकैः ।
कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥ ४८

इत्थं सम्प्रति पाद्याचैः उपचौरैस्तु पूजितः ।
आशीर्भिरभिनन्द्येनं प्रतिगृह्य च सत्क्रियम् ॥ ४९

तमपृच्छत् प्रहृष्टात्मा स्वाऽश्रमं पुनरययौ ।
एवं दिनेदिने विप्रः शूद्रेऽस्मिन् पक्षपातवान् ॥ ५०

आगच्छदश्रम तस्य द्रष्टुं त शूद्रयोनिजम् ।
बहुकालं द्विजस्याभूत् संसर्गाः शूद्रयोनिना ॥ ५१

स्नेहस्य वशमापन्नः शूद्रक्तं नातिचक्रमे ।
अथाऽगतं द्विजे शूद्रः प्राह स्नेहवशीकृतम् ॥ ५२

दृश्यकव्यविधानं मे ब्रूहि त्वं तु गुरुर्मतः।
एवमुक्तः स शूद्रेण सर्वमेतदुपाऽदिशत् ॥ ५३

कारयामास शद्रस्य पितृकार्यादिकं तदा।
पितृकार्यं कृते तेन विमृष्टः स द्विजोत्तमः ॥ ५४

शूद्रस्य वैदिककर्मोपदेशेन सुभद्यनुभूतदुर्गतिः।

अथ दीर्घण कालेन पोषितः शूद्रयोनिना ।
त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमत् द्वचः ॥ ५५