पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
श्रीस्कान्दपुराणे नवमोऽध्यायः



ल्क्ष्य सह धरण्या च भगवान् मधुसूदनः ।
सावित्र्या च सरस्वत्या सहैव चतुराननः ॥ ४

पार्वत्या सह देवेशः न्यम्बकत्रिपुरान्तकः ।
हेरम्बषण्मुखाद्याश्च देवः सेन्द्रपुरोगमाः ॥ ५

आदित्यादिमहध्व तथाऽष्टवसवो द्विजाः!।
पितरो लोकपालश्च तथाऽन्ये देवतागणाः॥ ६

महापातकसवनां नाशने लोकपावने ।
दिवानिश वसन्यन्तः वेङ्कटाचमूर्धनि ॥ ७

तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ।
तन्मूर्धनि कृतावासः सिद्धचारणयोषितः ॥ ८

पूजयन्ति सदाकलं वेङ्कटेशे कृपानिधिम् ।
कोट्यो ब्रह्महत्यानां अगम्यागमकोटयः ।
अङ्गलमा विनश्यन्त वेङ्कटाचलमारुतैः ॥ ९

श्रीवेङ्कटाचलरोहणसमयानुसन्धानक्रमः



वेङ्कटाद्रि गिरिं तन्तु प्रार्थयेत् पुष्यवर्धनम् ।
‘स्वर्णाचल ! महापुण्य! सर्वदेवनिषेधित! ॥ १०

ब्रआदयोऽपि ये देवाः सेवन्ते श्रद्धया सह ।
ते भवन्तमहं पद्भयां आक्रमेयं नगोत्तम! ॥ ११

क्षमस्व तदयं मेऽद्य दयया पापचेतसः।
बन्धीनि कृतावमं माधवं दर्शयस्व मे ॥ १२

प्रार्थयित्वा नरस्यैवं वेद्यादिं नगोतमम् ।
ततो मृदुपद गच्छेत् पवन वेङ्कटाचलम् ॥ १३

था. 7.