पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
श्रीस्कान्दपुराणे द्वितीयोऽध्यायः

 वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ! ।
 वजदंष्ट्राभिधे घोरे नरके पात्यते चिरम् ॥ ३४

 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ।
 विद्यन्ते यानि चान्यानि नरकाणि परत्र वै ॥ ३५

 तानि नाऽप्नोति मनुजः स्वामितीर्थनिमज्जनात् ।
 पुष्करिण्यां सकृत्स्नानात् अश्वमेधफलं लभेत् ॥ ३६

 आत्मविद्या भवेत्साक्षात् मुक्तिश्चापि चतुर्विधा ।
 न पापे रमते बुद्धिः न भवेद्दुःखमेव वा ॥ ३७

 तुलापुरुषदानेन यत्फलं लभते नरैः ।
 तत्फलं लभ्यते पुम्भिः स्वामितीर्थनिमज्जनात् ॥ ३८

 गोसहस्रप्रदानेन यत्पुण्यं हि भवेन्नृणाम् ।
 यत्पुण्यं लभते मर्त्यः स्वामितीर्थनिमज्जनात् ॥ ३९

 धर्मार्थकाममोक्षाणां यं यमिच्छति पूरुषः ।
 तं तं सद्यः समाप्नेति स्वामितीर्थनिमज्जनात् ॥ ४०

 महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
 सद्यः पूतो भवेद्विप्राः ! स्वामितीर्थनिमज्जनात् ॥ ४१

 प्रज्ञा लक्ष्मीर्यशः सम्पत् ज्ञानं धर्मो विरक्तता ।
 मनःशुद्धिर्भवेन्नृणां स्वामितीर्थनिषेवणात् ॥ ४२

 ब्रह्महत्यायुतञ्चापि सुरापानायुतं तथा ।
 अयुतं गुरुदाराणां गमनं पापकारिणाम् ॥ ४३

 स्तेयायुतं सुवर्णानां तत्संसर्गाश्च केटिशः ।
 शीघ्रं विलयमायान्ति स्वामितीर्थनिमज्जनात् ॥ ४४

 ब्रह्महत्यासमानानि सुरापानसमानि च ।
 गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः ! ॥ ४५