पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
श्रीवेङ्कटाचलमाहात्म्यम्

 स्नाति चेत्स्वामितीर्थे च तस्मिन्नाऽसौ निपात्यते ।
 बाधते सर्वजन्तून् यो नानोपयैरुपद्रवैः ॥ २२

 शाल्मलीनरके घोरे पात्यते बहुकण्टके ।
 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ २३

 राजा वा राजभृत्यो वा यः पाषण्डमनुद्रुतः ।
 भेदको धर्मसेतूनां वैतरण्यां निपात्यते ॥ २४

 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ।
 वृषलीसङ्गदुष्टो वा शौचाद्याचारवर्जितः ॥ २५

 त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारतः सदा ।
 स पूयविष्ठा...ूत्रासृक्लेष्मपित्तादिपूरिते ॥ २६

 अतिबीभत्सनरके पात्यते यमकिङ्करैः ।
 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ २७

 यः श्वभिर्युगयुर्वन्यान् बाणैर्वा बाधते मृगान् ।
 स विध्द्यमानो बाणौधैः परत्र यमकिङ्करैः ॥ २८

 प्रणरोधाख्यनरके पात्यते यमकिङ्करैः ।
 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ २९

 दाम्भिको यः पशून् यज्ञे विध्यनुष्ठानवर्जितः ।
 हन्त्यसौ परलोकेषु वैशसे नरके द्विजाः ॥ ३०

 कर्त्यमानो यमभटैः पात्यते यमकिङ्करैः ।
 स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ॥ ३१

 आत्मभार्यां सवर्णां यो रेतः पाययते यदि ।
 परत्र रेतःपायी स रेतःकुण्डे निपात्यते ॥ ३२

 स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ।
 यो दस्युर्मार्गमाश्रित्य गरदो ग्रामदाहकः ॥ ३३