मातरं पितरं विप्रान् यो द्वेष्टि पुरुषाधमः ।
स कालसुत्रनरके विस्तृतायुतयोजने ॥ १०
अधस्तादग्निसन्तप्ते उपर्यर्कमरीचिभिः ।
खले ताम्रमये विप्राः ! पात्यते क्षुधयाऽर्दितः ॥ ११
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नऽसौ निपात्यते ।
यो वेदमार्गमुल्लङ्घ्य वर्तते कुपथे नरः ॥ १२
सोऽसिपत्रवने घोरे पात्यते यमकिङ्करैः ।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ १३
योऽश्नाति पङ्क्तिभेदेन पक्वं सूपादिकं नरः ।
अकृत्वा पञ्चयज्ञान्वा भुङ्क्ते मोहेन स द्विजाः ॥ १४
पात्यतेऽयं यमभटैः नरके कृमिभोजने ।
भक्ष्यमाणः कृमिशतैः भक्षयन् कृमिसञ्चयान् ॥ १५
स्वयञ्च कृमिभूतस्सन् तिष्ठेद्यावदघक्षयम् ।
स्नाति चेत्स्वामितीर्यं वै तस्मिन्नाऽसौ निपात्यते ॥ १६
यो हरेद्विप्रवित्तानि स्नेहेन बलतोऽपि वा ।
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ॥ १७
अयोमयाग्निकुण्डेषु सन्दंशैः सोऽपि पीडितः ।
सन्दंशे नरके घोरे पात्यते यमपूरुषैः ॥ १८
स्नाति चेस्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ।
अगम्यां योऽभिगच्छेत स्त्रियं वै पुरुषाधमः ॥ १९
अगम्यं पुरुषं योषित् अभिगच्छेत वा द्विजाः ।
तावयोमयनारीञ्च पुरुषञ्चाप्ययोमयम् ॥ २०
तप्तावालिङ्ग्य तिष्ठन्तौ यावच्चन्द्रदिवाकरम् ।
सुच्याख्ये नरके घोरे पात्यते यमकिङ्करैः ॥ २१
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८७
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
श्रीस्कान्दपुराणे द्वितीयोऽध्यायः