अथ द्वितीयोऽध्यायः
***
स्वामिपुष्करिणीस्नानात् तामिस्रादिनरकनिस्तारः
ऋषयः---
सूत ! सर्वार्थतत्वज्ञ ! वेदवेदाङ्गपारग ! ।
श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो ! ।
यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥ १
श्रीसूतः---
स्वामितीर्थं प्रशंसन्ति ...न्ति वा कथयन्ति ये ।
अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते ॥ २
तामिस्रमन्धतामिस्रं महरौरवरौरवौ ।
कुम्भीपाकं कालसूत्रं असिपत्रवनं तथा ॥ ३
कृमिभक्षोऽन्धकूपश्च सन्देशः शाल्मली तथा ।
लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा ॥ ४
तथैव वज्रकणकः क्षारकर्दमपातनम् ।
रक्षोगणाशनञ्चापि शूलपोतनिरोधनम् ॥ ५
तिरोधनाभिधं विप्रा ! तथा सूचीमुखाभिधम् ।
पूयशोणितभक्षञ्च विषाग्निपरिपीडनम् ॥ ६
अष्टाविंशतिसङ्ख्यातं एतन्नरकसञ्चयम् ।
न याति मनुजो विप्राः ! स्वामितीर्थनिमज्जनात् ॥ ७
विसाय...कलत्राणां योऽन्येषामपहारकः ।
स कालपाशबद्धोऽयं यमदूतैर्भयानकैः ॥ ८
तामिस्रे नरके घोरे पात्यते बहुवत्सरम् ।
स्नाति चेत्स्वामितीर्थे स तस्मिन्नाऽसौ निपात्यते ॥ ९