पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
श्रीवेङ्कटाचलमाहात्म्यम्

 न तेन सह पङ्क्तौ च भुञ्जीत सुकृती जनः ।
 न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ॥ ७५

 तत्संभाषणमात्रेण महापातक...वेत् ।
 परीक्षित् तु महाराजः पुण्यश्लोकश्च धार्मिकः ॥ ७४

 विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ।
 व्यासपुत्राद्धरिकथां श्रुतवान् भक्तिपूर्वकम् ॥ ७५

 अरक्षित्वा नृपं तं तु वचसा तक्षकस्य यत् ।
 निवृत्तस्तेन विप्रेन्द्रैः बान्धवैरपि दूप्यसे ॥ ७६

 स परीक्षिन्महाराजो यद्यपि क्षणजीवितः ।
 तथाऽपि यावन्मरणं बुधैः कार्यं चिकित्सितम् ॥ ७७

 'यावत्कण्ठगताः प्राणाः मुमूर्षोर्मानस्य हि ।
 तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः' ॥ ७८

 इति प्राहुः पुरा श्लोकं भिषग्विद्याब्धिपारगाः ।
 ततश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ॥ ७९

 अर्धमार्गनिवृत्तश्च तेन त्वं गर्हितो ह्यसि' ।
 शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ॥ ८०

काश्यपः---

 'ममैतद्दोषशान्त्यर्थं उपायं वद सुव्रत !
 येन मां प्रतिगृह्णीयुः बान्धवाः ससुहृज्जनाः ॥ ८१

 कृपां मयि कुरुष्व त्वं शाकल्य ! हरिवल्लभ !
 काश्यपेनैवमुक्तस्तु शाकल्योऽपि मुनीश्वरः ।
 क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ॥ ८२

 'अस्य पापस्य शान्त्यर्थं उपायं प्रवदामि ते ।
 तत्कर्तव्यं त्वया शीघ्रं विलम्बं मा कृथा द्विज ! ॥ ८३