पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
श्रीस्कान्दपुराणे प्रथमोऽध्यायः

काश्यपः---
 'भगवन् ! सर्वधर्मज्ञ ! शा कल्य ! हरिवल्लभ ! ।
 मुनयो ब्राह्मणाश्चान्ये मां निन्दन्ति सुहृज्जनाः ॥ ६२

 नास्याहं कारणं जाने किं मां निन्दन्ति मानवाः ।
 ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ॥ ६३

 स्तेयं संसर्गदोषो वा मया नाऽचरितं क्वचित् ।
 अन्यान्यपि च पापानि न कृतानि मया मुने ! ॥ ६४

 तथाऽपि निन्दन्ति जनाः वृथा मां बान्धवादयः ।
 जानासि चेत् त्वं शाकल्य ! मया दोषं कृतं वद !' ॥ ६५

 उक्तोऽथ काश्यपेनैव शाकल्याख्यो महामुनिः ।
 क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ॥ ६६

शाकल्योक्तधर्माः



शाकल्यः---
 'परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ।
 आयासीदर्धमार्गे तु तक्षकेण निवारितः ॥ ६७

 चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ।
 यो न रक्षति लोकेऽस्मिन् तमाहुर्ब्रह्मघातुकम् ॥ ६८

 क्रोधात्कामाद्भयाल्लोभात् मात्सर्यान्मोहतोऽपि वा ।
 यो न रक्षति विप्रेन्द्र ! विषरोगातुरं नरम् ॥ ६९

 ब्रह्महा च सुरापी वा स्तेयी च गुरुतल्पगः ।
 संसर्गदोषदुष्टश्च नापि तस्य विनिष्कृतिः ॥ ७०

 कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ।
 कृतघ्नस्याऽपि शास्त्रेषु प्रायश्चितं न विद्यते ॥ ७१

 विषरोगातुरं यस्तु समर्थोऽपि न रक्षति ।
 न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥ ७२

पा. 5.