पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
श्रीवेङ्कटाचलमाहात्म्यम्

 सुवर्णमन्नं ताम्बूलं सुगन्धं शीतलं जलम् ।
 अत्र दत्त्वा नरः पूतः सर्वान् कामानवाप्नुयात् ॥ ४४

तुम्बुरुः---
 'भगवन् ! मम नाम्नैव तीर्थमेतत् प्रसिद्ध्यतु' ।
 'तथाऽस्त्वि'त्युक्तवान् विष्णुः तुम्बुरुं पुनरब्रवीत् ॥ ४५

श्रीभगवान्---

 'नारदेन सहैव त्वं पूतो मत्कीर्तनं कुरु ।
 येऽत्र फल्गुनराकाषां स्नानदानादि कुर्वते ॥ ४६

 इह लोके परत्रापि तेषामिष्टं ददाम्यहम्' ।
 इत्युक्तास्तुम्बुरुमुखाः तुष्टा याता यथागतम् ॥ ४७

इति श्रीब्रह्मोत्तरखण्डे श्रीवेङ्कटाचलमाहात्म्ये तीर्थमाहात्म्ये


तुम्बुरुतीर्थमाहात्म्यं नाम एक-


पञ्चाशत्तमोऽध्यायः ।