तान् मदंशान् ऋषिगणान् वदन्त्यत्र न संशयः ।
सर्वं दानं कोटिगुणं भवत्यत्र न संशयः ॥ ८६
तस्मात् कुर्वन्तु दानानि सर्वे मनुजपुङ्गवाः ! ।
सर्वदाऽस्मिन् पुण्यदिते सन्निधिं विदधाम्यहम् ॥ ८७
स्नातानामत्र सर्वेषां वाञ्छितानि ददाम्यहम् ।
तीर्थार्थमागतान् सवोन् आहूय घननिःस्वनः ।
भगवान् वेङ्कटाधीशो वाक्यमर्थवदब्रवीत् ॥ ८८
'सर्वेषां वः सर्वपापक्षयोऽभूत्
सर्वेषां वो वाञ्छितं दत्तमेव ।
सर्वेषां वः सन्तु कालान्तरे च
लोकाः श्रेष्ठाः योगिनामप्यलभ्याः ॥ ८९
कलौ तु भारते वर्षे मानुषं जन्म दुर्लभम् ।
ततो वेङ्कटयात्रा तु दुर्लभा सुकृतं विना ॥ ९०
ततोऽप्यस्मिन् दिने पुण्ये तीर्थे तुम्बुरुनामके ।
स्नानं दानञ्च लब्धञ्चेत् ते कृतार्था न संशयः' ॥ ९१
इत्युक्त्वा वेङ्कटाधीशो हरिर्गरुडवाहनः ।
रमया सहितो रेमे वेङ्कटाख्ये महीधरे ॥ ९२
एवं तुम्बुरुतीर्थं वै स्नात्वा देवर्षिमानवाः ।
हरिं नत्वा तद्वदनसुधां पीत्वा यथागतम् ।
प्रशंसन्तस्तु तत्तीर्थं ययुः सन्तुष्टमानसाः ॥ ९३
घोणस्नानेन सर्वसिद्धं सर्वाबद्धं प्रति वसिष्टादि...
वसिष्ठस्सर्वसिद्धेन तुष्टः स्वाऽवासमागम... ।
किञ्चित्कालानन्तरं तं वसिष्ठो वाक्यमब्रवीत् ॥ ९४