पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
श्रीब्रह्मोत्तरखण्डे प्रथमोऽध्यायः

 तस्मादेकाग्रहृदयैः कर्तव्यान्तरनिःस्पृहैः ।
 भवादृशैः पुण्यकथा श्रोतव्याऽञ्जलिकारिभिः ॥ ४

 पुरा कदाचिद्विप्राणां उत्तमोत्तमतां गताः ।
 वसिष्ठाद्या ब्रह्मसदः किञ्चित्कार्येच्छया गताः ॥ ५

 तत्र देवैस्तथा सिद्धैः पुण्यश्लोकैश्च राजभिः ।
 सनन्दसनकाद्यैश्च योगाचार्यैश्च सत्तमैः ॥ ६

 गङ्गाद्याभिर्नदीभिश्च सर्वतीथैः सविग्रहैः ।
 संसेव्यमानं सदसि ब्रह्मणं चतुराननम् ॥ ७

 वेदैरनन्तैः शास्त्रैश्च मूर्तिमद्भिरुपासितम् ।
 सुरज्येष्ठमुपागम्य वसिष्ठो मुनिसत्तमः ॥ ८

 प्रणम्य सहजानन्दो वाक्यमेतदुवाच ह ।
 'ब्रह्मन् ! समस्तलोकानां नायकामरशेखर ! ॥ ९

 इदं वन्दनमायाति दयया मां विलोकय' ।
 इति प्रणम्योत्थतं तं वसिष्ठमृषिसत्तमम् ॥ १०

 दयया विधिरालोक्य 'निषीदे'त्यब्रवीत्तदा ।
 तत्र ब्रह्मसभामध्ये वर्तमानकथासु च ॥ ११

 निवृत्तासु ततः पश्चात् उवाच च पितामहः ।
 'किमर्थमागतोऽसी' ति वसिष्ठं वाक्यमब्रवीत् ॥ १२

 ततो वसिष्ठः प्रणतो विनयावनतो मुनिः ।
 वाक्यं विज्ञापयामास ब्रह्मणेऽनन्ततेजसे ॥ १३

वसिष्ठः---
 'प्रसीद भगवन् ब्रह्मन् ! पङ्कजासन ! ते नमः ।
 विज्ञाप्यं किञ्चिदस्त्येतत् दययाऽऽकर्णय प्रभो ॥ १४

 यद्वसिष्ठवसिष्ठेति मानं कुर्वन्ति मे जनाः ।
 तत्सर्वं मम दुःखाय जायते नात्र संशयः ॥ १५