पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः

श्रियै पद्मावत्यै नमः

श्रीमते विष्वक्सेनाय नमः

श्रीवेङ्कटाचलमाहात्म्यम्

******

(श्रीब्रह्मोत्तरखण्डान्तर्गतम्)


श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कट।चलधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ

पञ्चाशत्तमोऽध्यायः

ब्रह्माणं प्रति वसिष्ठप्रार्थनया स्वपौरोहित्यपापनिवृत्तिः

ऋषय ऊचुः
 सूत ! वेदार्थतत्वज्ञ ! वेदव्यासकृपानिधे ! ।
 ब्रूहि नः सर्वतीर्थेषु तीर्थं सर्वाघनाशनम् ॥ १

सूत:---
 कथयामि कथां सम्यक् सर्वपापापनोदिनीम् ।
 यस्याः श्रवणमात्रेण दृष्टादृष्टफलागमः ॥ २

 प्राप्नुवन्ति महत्पुण्यं इति सर्वर्षिसम्मतम् ।
 कथायां कथ्यमानायां ये भवन्त्यपराङ्मुखाः ॥ ३