पञ्च पर्वाणि देवस्य यः कारयति मानवः ।
तस्यापराधसाहस्रं क्षमते नात्र संशयः ॥ २३
इहापि भुक्त्वा भोगांश्च मोक्षञ्चैवाधिगच्छति ।
यः कारयति नैवेद्यं स्वादु षड्ससंयुतम् ॥ २४
ऐहिकामुष्मिकाँल्लोके सर्वान् कामानवाप्नुयात् ।
सहस्रनामभिः पूजां श्रीपतेः कारयेत्तु यः ॥ २५
तेनैव सकला पूजा कृतैव स्यान्न संशयः ।
शारिकाशुकपूर्वांश्च विहङ्गान् मर्कटान् गुरून् ॥ २६
सारङ्गान् गवयान् वन्यान् दत्वा स्वर्गमवाप्नुयात् ।
पुष्पोद्यानानि रम्याणि वनानि विविधानि च ॥ २७
क्रीडास्पदानि हर्म्याणि यः करोति स मुच्यते ।
यः कुर्याद्दीपदानन्तु नित्यं विष्णोश्च सन्निधौ ॥ २८
ब्रह्महत्यासहस्राणि गुरुतल्पार्बुदानि च ।
तथाऽन्यपापकोटीश्च निर्दहेत्सूर्यवद्धिमम् ॥ २९
विष्णुवृद्धाख्यद्विजबन्धुवृतान्तः
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
श्रवणात्सर्वपापघ्नं सर्वमङ्गलदायकम् ॥ ३०
द्विजबन्धुः पुरा कश्चित् विष्णुवृद्धाभिधो नरः ।
हत्वा स्वं गुरुमत्युग्रो देवस्वामीति यं विदुः ॥ ३१
दासवृत्या गृहे तिष्ठन् तस्य पत्नीसहस्रकम् ।
निवृत्तार्न्यपथो मूर्खो बुभुजे काममोहितः ॥ ३२
भूयान् कालोऽत्ययात्तस्य प्रत्यहं पापवर्त्मनः ।
तेन दोषेण महता श्वेतकुष्ठ्यभ्यजायत ॥ ३३