निरागमस्तु तीर्थस्य तथा चाकृतसत्क्रियः ।
न तत्फलमवाप्नोति श्रम एव हि केवलम् ॥ ७
सत्सङ्गी सत्कथां शृण्वन् सदचारसमन्वितः ।
तीर्थयात्रां प्रकुर्वाणो ब्रह्मनिर्वाणमृच्छति ॥ ८
तीर्थयात्रापरो यस्तु विधिज्ञो विधिवित्तमैः ।
निर्धूताखिलपाप सन् स याति परमां गतिम् ॥ ९
काम्यं न कुर्वीत नरः कामाद्याज्जन्म चाश्नुते ।
जातः कर्माणि कुरुते कर्मणा च पुनर्जनिः ॥ १०
ऐहिकामुष्मकं सर्वं निष्कामो लभते फलम् ।
सर्वेषामेव जन्तूनां विद्यया मनने विधिः ॥ ११
अभ्यस्तानाञ्च विद्यनां श्रवणान्मननादपि ।
परापरोक्षशास्त्रार्थप्रत्ययो लेशतो भवेत् ॥ १२
दृष्टप्रत्ययशास्त्रार्थे पुनः श्रद्धाऽभिजायते ।
श्रद्धया जायते भक्तिः भक्त्या तुष्यति केशवः ॥ १३
तीर्थयात्रां प्रकुर्वीत शास्त्रालापसमन्वितः ।
शास्त्रलपाच्च जानाति मनसा विभुमव्ययम् ॥ १४
तथा देवाश्च ऋषयः सदालापसमन्विताः ।
उपासते सञ्जानाना भगवन्तमधोक्षजम् ॥ १५
वसिष्ठाद्याश्च ऋषयो देवता अपि सर्वशः ।
तीर्थे कृताधिवासाश्च समाधिस्था परं ययुः ॥ १६
अनागमस्तु यो मर्त्यो पश्चाज्ज्ञातविधिस्तथा ।
न स्नानफलमाप्नोति काकमण्डूकवत्तु सः ॥ १७
अधीतविद्यः सुकृती कृतस्नानादिसत्क्रियः ।
शुद्धान्तरो ज्ञानवांश्च तेन मोक्षञ्च विन्दति ॥ १८
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५३
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
श्रीब्रह्मपुराणे नवमोऽध्यायः