तत्तत्प्रशंसिनीं दिव्यां कथां न श्रुणुयाद्यदि ।
तीर्थयात्रा च विफला भस्मन्येव हुतं यथा ।
तस्मात्कूरु महाभाग ! कथायाः श्रवणं सदा ॥ ४२
इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवराहाविर्भाव-
स्वामिपुष्करिणीगततीर्थमाहात्म्यवर्णनं नाम
अष्टमोऽध्यायः
****
अथ नवमोऽध्यायः
***
श्रीवेङ्कटाद्रिगतपुण्यतीर्थस्नानप्रशंसा
दिलीपः---
को विधिस्तीर्थयात्रायां ! कः कालः ! किं फलं ! भवेत् ।
एतद्विस्तार्य मे बूहि तृप्तिर्नाद्यापि जायते ॥ १
दुर्वासा---
भुवि जन्म समासाद्य संस्कारैरपि संस्कृतः ।
अधीतविद्यो बाल्ये च स्नातकव्रतनिष्ठितः ॥ २
तीर्थयात्रां प्रकुर्वीत शस्त्राणां प्रत्ययाय च ।
नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् ॥ ३
तत्र नैमित्तिकं प्राहुः तीर्थयात्रां महत्तमाः ।
नाविद्यस्याधिकारोऽत्र विद्याविधिरनुत्तमाः ॥ ४
न तीर्थयात्रां कुर्वीत मनीषी मनने रतः ।
यात्रायां मननामावात् चित्तविक्षेपहेतुतः ॥ ५
नरो विस्मृतविद्यत्वात् ज्ञानहीनो भवेत्स्वयम् ।
नष्टसंज्ञो विमार्गस्थो निरयञ्चाधिगच्छति ॥ ६