पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
श्रीवेङ्कटाचलमाहात्म्यम्

 तीर्थानाञ्चात्र पुण्यानां नामसङ्कीर्तनात्रृणाम् ।
 सद्य एव महापापकोटीनाञ्च क्षयो भवेत् ॥ ३

 किमु स्नानादिसत्कर्मनिरतानां महात्मनाम् ।
 तानि क्रमेण वक्ष्यामि समाहितमना भव ॥ ४

 देवस्य पूर्वदिग्भागे तत्रैवानेयकोणके ।
 चक्रतीर्थमिति ख्यातं चक्रेणाधिष्ठितं पुरा ॥ ५

 तस्योपरि तदाऽख्यातं वज्रतीर्थं मनोहरम् ।
 वैष्वक्सेनं तथा तीर्थं शक्रपापहरं परम् ॥ ६

 ततः पाञ्चायुधं तीर्थं तन्मध्ये च हलायुधम् ।
 ऐशान्यभागे तु नारसिंहं मनोहरम् ॥ ७

 ततः काश्यपतीर्थञ्च मान्मथन्तु ततः परम् ।
 ब्रह्मतीर्थञ्चाग्नितीर्थं गौतमन्तु ततः परम् ॥ ८

 दैवतीर्थं दैवलञ्च वैश्वामित्रमतः परम् ।
 भार्गवन्तु तथा तीर्थं आष्टावक्रमतः परम् ॥ ९

 दुरारोहणतीर्थं तत् आग्नेय्यामस्ति वै दिशि ।
 ऐशान्यां भैरवं तीर्थं पिशाचानां विमोचनम् ॥ १०

 मेहतीर्थमिति ख्यातं उदरव्याधिनाशनम् ।
 क्षेत्रपालशिलातीर्थे पश्चिमे पाण्डवं तथा ॥ ११

 वायुवीर्थं तथा पुण्यं सेवितुं भूरि वायुना ।
 अस्थितीर्थं महापुण्यं मृतास्थिक्षेपणादिह ॥ १२

 पूर्वदेहसमायुक्ताः पुनर्जीवन्ति जन्तवः।
 मार्कण्डेयं तथा तीर्थं स्नानादायुष्यवर्द्धनम् ॥ १३

 तथा जाबालितीर्थञ्च वालखिल्यमतः परम् ।
 ततो ज्वरहरं तीर्थं सर्वज्वरनिवारणम् ॥ १४