पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
श्रीब्रह्मपुराणे चतुर्थोऽध्यायः

दुर्वासाः---
 षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे ।
 अष्टोत्तरसहस्रन्तु तेषु मुख्यानि सुव्रत ! ॥ ४

 तीर्थानि सम्मतानीह सद्धर्मरतिदानि वै ।
 अष्टोत्तरसहस्राञ्च मुख्यतीर्थानि वै ततः ॥ ५

 सद्विज्ञानप्रदान्यत्र तीर्थान्यष्टोत्तरं शतम् ।
 तस्माच्चाष्टोत्तरशतं मुख्यतीर्थानि भूपते ! ॥ ६

 भक्तिवैराग्यदान्यत्र षष्टिमष्टोत्तरां विदुः ।
 मुक्तिदन्यत्र सप्तैव मुक्तिदन्यत्र ते ब्रुवे ॥ ७

 (१) स्वामिपुष्करिणी चैव (२) वियद्गङ्गा ततः परम् ।
 पश्चात् (३) पापविनाशञ्च (४) पाण्डुतीर्थं ततः परम् ॥ ८

 (५) कुमारधारिकातीर्थं (६) तुम्बोस्तीर्थं ततः परम् ।
 (७) कृष्णतीर्थमिति ख्यातं सर्वपापहरं शुभम् ॥ ९

 तत्र स्नान्ति च ये मर्त्याः ते यान्ति परमं पदम् ।
 वर्षे वर्षे च तीर्थानां सप्तनां पर्वतोत्तमे ॥ १०

 तिथिनक्षत्रयोगेन सर्वतीर्थसमागमः ।
 तञ्च कालं प्रवक्ष्यामि समाहितमना भव ॥ ११

 मकरस्थे रवै राजन् ! पौर्णमास्यां महातिथौ ।
 पुण्यनक्षत्रयुक्तायां स्नानकालो विधीयते ॥ १२

 तद्दिने स्नाति यो मर्थ्यः कृष्णतीर्थे महामतिः ।
 सर्वपापविनिर्मुक्तः सर्वकामाँल्लभेत सः ॥ १३

 कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत् ।
 कुमारधारिकं यान्ति सर्वतीर्थानि वै तदा ॥ १४

 तत्र यः स्नाति राजेन्द्र ! राजसूयफलं लभेत् ।
 पुत्रो विजयते तस्य तस्मिन्नेव हि जन्मनि ॥ १५

पा. 2.