वासुदेवे मनः कृत्वा तपः कुरु वृषाचले ।
तदा कालान्तरेऽगस्त्यः सशिष्यः सङ्गमिष्यति ॥ ३९
मुनिनोक्तञ्च माहात्म्यं शृण्चन् कुर्वन् प्रदक्षिणम् ।
साकं तेन समाधिस्थः साक्षात्पश्यसि तं विभुम् ।
त्वयाऽपि संस्तुतो देवः तवाभीष्टं प्रयच्छति' ॥ ४०
दुर्वासाः---
गुरुणा चेदितस्त्वेवं स गत्वा ते वृषाचलम् ।
तत्क्रमेण तपस्तप्त्वा मुनिना तेन सङ्गतः ॥ ४१
आविर्भूतं हरिं दृष्ट्वा ययाचे वरमुत्तमम् ।
'यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ५२
तावन्मया कृता सेवा शैलेन्द्रे तव सम्भवेत्' ।
इत्युक्तो भगवान् प्राह 'शृणु भूप ! वचो मम ॥ ५३
श्रीनिवासाज्ञया शङ्खनृपकृतभगवद्दिव्यविमानम्
अर्चाविग्रहरूपोऽहं सच्चिदानन्दविग्रहः ।
स्वयंव्यक्तप्रदेशेषु दृश्यो ब्रह्मादियोगिनाम् ॥ ४४
तामेव प्रतिमां केचित् जानन्ति नृपपुङ्गव ! ।
तथात्वेनापि वा योग्यं दर्शनं मे कलौ युगे ॥ ४५
युगेष्वपि च सर्वेषु दर्शनं यत्तु पापिनाम् ।
तद्रूपस्य पिधानाय सादृश्यध्यानहेतवे ॥ ४६
विमानञ्च शिलादारुलोष्ठेष्टकचितं कुरु ।
प्रतिमाञ्च शिलारूपं तां पश्यन्ति कुयोगिनः ॥ ४७
रूपद्वयं प्रपश्यन्ति ज्ञानिनो ब्रह्मवित्तमाः ।
भानुमान् भानुसङ्घैस्तु रसग्राही यथा भुवः ॥ ४८