पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
श्रीवेङ्कटाचलमाहात्म्यम्

 इति सञ्चिन्त्य मनसा राज्ये पुत्रं निधाय वै ।
 गत्वा वसिष्ठं पप्रच्छ 'यत्र विष्णुः प्रसीदति ॥ २७

 तत्क्षेत्रं ब्रूहि विप्रेन्द्र ! यत्र द्रक्ष्याम्यहं विभुम्' ।
 इति पृष्टो मुनिः प्राह 'यत्रागस्त्यो दिदृक्षया ॥ २८

 तपश्चरति धर्मात्मा तमुद्दिश्य महामुनिः ।
 भगवान् यत्र सर्वात्मा सान्निध्यञ्च करिष्यति ॥ २९

 त्वञ्च तं गच्छ शेषाद्रिं पुण्यं स्वर्णमुखीतटे ।
 तत्र ब्रह्मशिला काचित् सरिन्मध्ये च वर्तते ॥ ३०

 अगस्त्यतपसा पश्चात् गयासान्निध्यमत्र वै ।
 पादा ईशानविष्ण्यादिदेवानां तत्र सन्ति हि ॥ ३१

 सुवर्णमुखरी तत्र कुल्यया सङ्गता विभो ! ।
 तयोस्तु सङ्गमे राजन् ! ये केचन नरा भुवि ॥ ३२

 सङ्कल्प्य विधिवत् स्नात्वा देवर्षीनभितर्प्य च ।
 मध्ये ब्रह्मशिलयास्तु पितॄनुद्दिश्य भक्तितः ॥ ३३

 श्राद्धतर्पणपिण्डादीन् श्रद्धया सह वै विभो ! ।
 समाचरन्ति राजेन्द्र ! तेषां सप्तकुलावधि ॥ ३४

 गयायां पिण्डदानेन यथा तृप्ता भवन्ति वै ।
 तथा तृप्यन्ति पितरः सत्यमेव न संशयः ॥ ३५

 तसिन् दिनेऽन्नं दद्याच्च ताम्बूलं चन्दनादिकम् ।
 गोभूतिलहिरण्यादिवस्त्रधान्यानि सर्वशः ॥ ३६

 तत्र दत्तो यथाशक्ति रेणुर्मेरोः समो भवेत् ।
 त्वच्चापि तत्र राजेन्द्र ! महानद्योः समागमे ॥ ३७

 स्नानदानक्रियादीनि श्राद्धपिण्डांस्तिलोदकम् ।
 कृत्वा सर्वाणि कर्माणि ध्यानयोगं समास्थितः ॥ ३८