पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११

अथ तृतीयोऽध्यायः

---:*:---

वायोर्भगवद्दत्तप्रधानाङ्गत्वप्राप्तिः



दिलीपः---
 'देवर्षिनरसङ्घेषु शैलस्यास्य प्रथा कथम् ? ।
 देवेन केन देवेषु मुनिष्वपि च केन वा ॥ १

 नॄणां केन नरेणात्र ? ब्रूहि विस्तरतः क्रमात्' ।
दुर्वासाः---
 'पुरा वायुर्महातेजा विष्णोरमिततेजसः ॥ २

 [१]प्रधानाङ्गत्वमाकाङ्क्षन् तपस्तेपे नगोत्तमे ।
 दिव्यवर्षसहस्रान्ते सहस्रभुजकन्धरः ॥ ३

 आविरासीत्तदा तस्मै नीलाम्बुदसमप्रभः ।
 वरं प्रादात् "प्रधानाङ्गं भवे"ति पुरुषोत्तमः ॥ ४

 'अहमत्र निवत्स्यामि वस त्वञ्च मया सह ।
 तारकासुरविध्वंसजातदोषापनुत्तये ॥ ५

 कुमारधारिकातीर्थे स्कन्दोऽप्यत्र तपस्यति ।
 इति वायुं समादिश्य पश्चादन्तरधीयत ॥ ६

 मृडाद्या वशगा यस्य सोऽपि ब्रह्मा चतुर्मुखः ।
 श्रीवेङ्कटाचले श्रीशं वायोरमिततेजसः ॥ ७


  1. धानाङ्गत्वमित्यादि । प्रधानाङ्गत्वमि सर्वप्राणिनां स्वेतरदेहेन्द्रियादिसकलोपकरणससानिर्वाहकत्वलक्षणप्राधान्यविशिष्टप्राणाख्याङ्गत्वरूपम् अमिततेजसो विष्णोः सकाशदाकाङ्क्षन् तपस्तेपे इत्यन्वयः छान्दोग्यवजसनेयकयोः प्राणविद्यायां
    'यो ह वै ज्येष्ठं च श्रेष्ठ च बेद ज्येष्ठश्च ह वै श्रेष्टध भवति प्राणो ह वा च ज्येष्ठश्च श्रेष्ठश्च' इत्यदिनोक्तं स्वेतरदेहेन्द्रियासिकलोपकरणससाकाय....... ज्यैष्ठश्च श्रैष्ठयादिरूपं प्राणवायुगतं प्राधान्यमेवेह प्रधानङ्गत्वमि.......गम्यते ।