ब्रह्मानन्दवने रेमे रमयाऽन्तःपुरे सह ।
समादिदेश च तदा भगवान् रमया युतः ॥ १३
शेषमन्तःपुरद्वारे भाविकृत्यच्च चिन्तयन् ।
तदाशयानुगः शेषः सर्वलोकधुरन्धरः ॥ १४
तस्यायन्तःपुरद्वारे तस्य चानुमते तदा ।
स्थापयामास चात्मानं बलिष्ठं सर्वतोऽधिकम् ॥ १५
एतस्मिन्नन्तरे वायुः दुग्धाब्धिशयनं ययौ ।
तदा वायुं समारौत्सीत् फणीन्द्रो बलदैवतम् ॥ १६ ॥
'न च ते समयश्चात्र प्राप्तुमन्तपुरं हरेः ।
नात्मज्ञो हि भवान् वायो! कदा तेऽभूद्गतिः पुरा ।
इतःपरमतीत्य त्रिकक्ष्या अन्तःपुरे गृहे' ॥ १७
इति तद्वचनं श्रुत्वा वायुस्तं प्रत्यवोचत ।
वायुः---
'नात्मज्ञोऽसि त्वमेवात्र त्वयोक्तमविचारतः' ॥ १८
शेषः----
'बहिरन्तश्च यो नित्यं अहं नाथसमीपगः ।
त्वं भृत्यो मीदुषोर्विण्णोः नान्तरङ्गो न मत्समः ॥ १९
तिष्ठ तावद्दरेद्वरि' इत्यहीशो वायुमब्रवीत् ।
तच्छूत्वा प्रहसन् वायुः वायुभक्षमथाब्रवीत् ॥ २०
वायुः-
'दासीदासजना ये तु ये चान्ये परिचारकाः ।
तान् वदन्ति तु मित्राणि न तेऽर्हन्त्यासनं विभोः ॥ २१
बिडालोऽन्तःस्थितो वापि बहिष्ठेभसमो न हि ।
मां त्वं जानासि नाध्यक्षं प्राणिनां प्राणमीश्वरम् ॥ २२
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१
एतत् पृष्ठम् परिष्कृतम् अस्ति
३
श्रीब्रह्मपुराणे प्रथमोऽध्यायः