पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
एकादशः सर्गः ।


अशेषविश्ख़प्रियदर्शनन
धुर्या त्वमेतेन सुपुत्रिणनाम् ।
अलं विलम्बााचलराजपुत्रि
(६)[१]खपुत्रमुत्सङ्ग (७)[२]तले (८)[३]निधेहि ॥१४॥
(९)[४]अथेति वादिन्यमृतांशमौलौ
शैलेन्द्रपुगी रभसेन सद्यः ।
सान्द्रप्रमोदेन सुपीनगात्री
धात्री समस्तस्य चराचरस्य ॥ १५ ॥

 अशेषेति । अचलनां पर्वतानां राजा अचलराजः तस्य पुत्रं कन्या। तसम्बोधने है अचलराजपुवि। अशेषाणां सर्वेषां विखानां जगतां प्रियदर्शनेन सुदर्शनेन एतेन पुच्चेण त्वं सुपुत्रिणीनां प्रशस्तपुत्रशालिननधुर्या अग्रगण्या भवसति येषः। तस्मात् अलं विलम्ब विलम्बेनालं विलस्वं मा कुर्वित्यर्थः । स्वपुत्रम् आतमसुतम् उसङ्गतले अङ्गदेशे निधेहि क्षपय ठेवणेत्यथः ॥ १४ ॥

 अथ युग्मे न ब्रवीति ---

 अथेति । किरीटेति च ॥ अथ यनन्तरम् यमृतांशः शीताशः मौलौ मस्तके यस्य तथोत शिवे इति पूर्वोक्तेन प्रकारेण वादिनि कथयति सति । अमस्तस्य समग्रस्य चराचरस्य जगतः धाम पालयित्रौ तथा सान्द्रप्रमोदेन घनानन्देन हेतुना स प्रतिभयेन पीनं स्फीतं प्रफुकत्वादिति भावः । गाचं शरीरं ग्रस्ता: तथोळा । शैलेन्द्रस्व पर्वतरजस्य पुत्री तनया पार्वती । गभ:चैः आकाशगामिभिः तथा त्वरया सह वर्तमानैः त्वरा-


  1. सुपूर्णम्।
  2. तल ।
  3. विधेहि।
  4. तथा ।