पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
कुमारसंभवे

तस्मै जयाशीः ससृजे पुरस्तात्
सप्तर्षिभिस्तान् स्मितपूर्वमाह ।
विवाहयज्ञे विततेऽत्र यूय-
मध्वर्यवः पूर्वदृता मयेति ॥ ४७ ॥
विश्वावसुप्राग्रहरै प्रवणैः
सङ्गीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्कश्च
स्ततार ताराधिपखण्डधारी ॥ ४८॥

पुरानलोकमात्रेण दृष्टिमात्रेणेयं यथाप्रधानं यथाई सभा यामास ॥ ४६ ॥

 तस्य इति । तस्मै शिवाय सप्तर्षिभिः ॥ “दिक्संख्ये संज्ञाथाम्” इति समासः । पुरस्तादग्रे जयेत्याशः ससृजे प्रयुक् । तन् सप्तर्षीन् स्मितपूर्वमाइ-किमिति। वितते विस्तृ अत्र प्रवर्तित विवाह एव यज्ञः तस्मिन् यूयं मया पूर्वमव ठताः प्रथिता अध्वर्यवो ऋत्विज इति । विशेषवाचिना सामान्यमुक्तम् ॥४७॥

 विश्वस्खिति । विस्वावसुर्नाम कश्चिदन्धर्वा देवगायकस्तप्राग्रहरैस्तप्रमुखैः प्रवणैः प्रकृष्टवीणैर्निपुणैर्वा ॥ “प्रवणे निपुणाभिञ्जयिन्ननिष्णातशिक्षिताः” इत्यमरः । त्रयाणां पुराणां समाहरस्त्रिपुरम् ॥ “तद्धितार्थोत्तरपद-” इत्यादिना समाहारसमासः ॥ *पात्रादिभ्यः प्रतिषेधो वक्तव्यः” इति स्त्रीलिङ्गान्ततानिषेधः । त्रिपुरस्य सम्बन्ध्यवदानं पूर्वद्यतं कर्म विजयरुपं त्रिपुरावदानं तत्तीयमानं स्तूयमानं यस्य स तथोतः । `अवदानं कर्म वृत्तम्” इत्यमरः । मान्तं तमः। मोह इति यावत् । तद्विकारेण रागादिना लङोऽभिभवनीयो न भवतीत्यन्तविकारलङ्घः। विवाहादिकं तु तस्य लौलेत्यर्थः । ताराधिपखण्ड्रधारी चन्द्रशेखरः शम्भरध्वनं मार्गे ततारायगच्छत् ॥ ४८ ॥