पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
कुमारसम्भवे


तस्मात्प्रदेशच्च वितानवन्तं
युक्त' मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः (१)परिणुद्य निन्य[१]
कप्तासनं कौतुकवेदिमध्यम् ॥ १२ ॥
तां प्रागु,खीं तत्र निवेश्य तन्वीं
क्षणं व्यलम्बन्त पुरोनिषणाः।
भतार्थशोभाह्रियमाणने:
प्रसाधने सन्निहितेऽपि नार्यः ॥ १३ ॥

तपत्य हमनौयवस्त्र” इत्य तदेवोदाहृतवान् । हीतं पति प्रत्य. इमनीयवस्त्रं यया सा । धौतवस्त्रमाच्छादितवतीत्यर्थः। सा पार्वती निद्त्तो निष्पन्नः पर्जन्यस्य जलेनाभिवेशे यस्याः सा तथोता। प्रफुल्लतौति प्रफुल्लं काशं काशपुष्य ' यस्याः सा सथता वसुधेव रेजे शशमे ॥ ११ ॥

 तस्मादिति । किञ्चेति चार्थः । तस्मात् प्रदेशात् ज्ञानप्रदे शाद्वितानवन्तमुल्लोचयुक्तम् ॥ अस्त्री वितानमुल्लोचः* इत्व मरः । मणिस्तम्भचतुष्टयेन युक क्ळ्प्तं सच्जमानमासनं यस्मिंत्रं कौतुकवेदिमध्यं पतिव्रताभिः परिंट दोभ्यमालिङ्ग्य निन्ये नीता। प्रमधनथमित्यर्थः ॥ १२ ॥

 तामिति ॥ नार्यः प्रसाधिकास्तां तन्वीं पार्वती तत्र वेदि मध्ये प्रागुखीं निवेश्य उपवेश्य पुरोनिषस्य अग्रे स्थिताः।। प्राध्यतेऽनेनेति प्रसाधने अलङ्कारसrधनवर्गे सन्निहितेऽपि भूतार्था सस्थ रूपा। स्वाभाविकीति यावत् । या शोभा राम्' गेयकं तया ह्रियमाणान्सच्यमाणानि नेत्राणि यासां तास्त्र यः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधने नेति तूष्णीं तस्थुरित्यर्थः ॥ १३ ॥


  1. प्रतिग्रहा ।