पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
श्राद्धसारे पात्रादिशुद्धिः

पात्राणा चमसानां च वारिणा शुद्धिरिष्यते ।
स्फ्यशूपजिनधान्यानां मुसलोलूखलानसाम ।
चरुखुक्खुवसस्नेहपात्राण्युष्णेन वारिणा।

इन्यादि । यज्ञाङ्गभूतं काष्ठं छुरिझा शकट'दि । स्पष्टमन्यत् ।


सौवर्णं सुवर्णविकारः, अब्जं शङ्कशुक्तिमुक्ताफलादि । ऊद्
वैपात्रं यागीयम् , उलूखलादिः । ऐन्द्रादयो ग्रहाः पात्रविशेषाः ।
‘ऐन्द्रं ग्रहं गृहति, माहेन्द्र ग्रहो गृह्वति' इत्यादिवाक्यप्रसिद्धः ।
अश्मा दृषदादि आर्द्रकादिमूलविदलनं वेणुदलादि च । चर्माजादेः।
प्रणीतादीनि पात्राणि । होतृचमसादयश्चससाः । इमान्युदकक्षालनेन
शुद्धयन्तीति । सुवर्णरजतमया अत्यन्तानुपहता अग्नावेव शुद्धयन्ति
अग्नेश्चापां च संयोगादिति स्मरणात् ।
संवर्तः

‘विण्मूत्रोपहतं कांस्यं श्वपाकोपहतं तथा ।
भूमौ निक्षिप्य तं पात्रं घर्षणेन विशुद्धयतीति ।
मनु –‘निर्देपं काञ्चनं भाण्डमद्भिरेव विशुद्ध तीर्थेति ।

“शूद्रोच्छिश्वपाकोपहतं कांस्यपात्रं दशवारं भस्मना मार्जितं

शुद्धं स्यात्’ इत्यापस्तम्ब । अत्यन्तोपहतौ घर्षणमेवाभिहितम् ।
ए’ सर्वत्र न्यूनाधिकशौचकल्या न्यूनघट्टपट्टतिविषया इत्यवि
रोधः सर्वत्र । बौधायनः -‘तैजसाना विण्मूत्राद्युपहतौ पुनः करणं
गोमूत्रे वा सप्तरात्रं परिखासनमि’ति । अत्र लेपनईरणाशक्तो
११