पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
नृसिहप्रसादे

पराशरः--

‘पक्वं द्रोणाधिक वन्न काकश्वायुषघातितम् ।
ग्रासमुद्धृत्य तन्मात्रं यतु ललाश्रितं भवेत् ॥
हेमोदकेन वाऽभ्युक्षेत्र ज्वलनेनाम्बुनाऽथवा ।
अनिघालोपसस्पर्शात् सुवर्णमधुसर्पिषा ।
विप्राणा ब्रह्मघोषेण पूत भोज्यं च तद्भवेदिति ।

षट्पञ्चाशदधिकपलशतद्वयं द्रोण उच्यते ।

‘‘अन्नमेकाहिक पक्वं श्वकाकाद्युपघातितम् ।
केशकीटावपन्नं च तदप्येवं विशुद्धयति ।

क्रीतस्यापि विधिर्दष्ट एवमेव मनीषिभिरिति जमदग्निवचः

स्वल्पविषयम् ।

अथ द्रवद्यशुद्धिः।



तत्र मनु

द्रवाणां चैव सर्वेषा शुद्धिरुपवनं स्मृतम् ।
प्रोक्षणं संहतानां च दारवाणा च तक्षणम्’ इति ।

तथा

द्रवमाणां प्लावनेनैव घनानां प्रोक्षणेन च ।
छागेन मुखसंस्पृष्टमन्नं तच्छुचितामियात् ।।
पर्णचटकादयो घना उच्यन्ते । द्रवद्रव्यं गोरसः ।
श्रपणं घृततैलानां प्लावनं गोरसस्य च ।
भाण्डानि प्लावयेदद्भिः शाकमूलफलानि च" इति ।