पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
नृसिहप्रसादे

नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
उत्पद्यते चन्द्रमसो रवेव तिस्रोऽष्टका अप्ययनद्वये च ।
पानीयमप्यत्र तिलैविमिश्र दद्यात्पितृभ्यः प्रयतो मनुष्यः । ।
श्राद्धं कृतं तेन समाः सहस्त्रं रहस्यमेतत्पितरो वदन्ति ।

नभस्यो भाद्रपदः । उपप्लवे उपरागे, राहुदर्शन इति यावत् ।

तिस्र इति सप्तम्यादितिथित्रयाभिप्रायेण मार्गशीर्षादिमासत्रयाभिमा
येण च, तथा चतुर्णामपरपक्षाणामित्यनेन विरोधः स्यात् । तत
क्षेत्र तिस्र इति वीप्सा द्रष्टव्या । पानीयग्रहणं श्राद्धस्यावश्यकत्वं
द्योतयति । समाः सहस्त्रं वर्षसहस्रमित्यर्थः । पञ्चदशी माघस्येह यु
गादितयऽभिहितपञ्चदशीशब्दसाधारण्येऽपि च सति कृष्णत्रयोद
शीसन्निकर्षात् युगादिमयामावास्यैव युक्ता, माध्यपि पुण्यैवोक्त
वाक्यान्तरेण युगादिर्न भवत्येव ‘‘चेन्भधायुक्ता स्यात्तस्यां श्राद्धे
कृत्वा पूतो भवतीति विष्णुस्मरणात् । पौर्णमासीत्वोपाधिना
श्राद्धकालत्वे सिद्धेऽपि मघा-तिलग्रहणं फलातिशयार्थं निकृष्टाया
अपि श्राद्धकालत्वात् । तथा—

पौर्णमास्यां व्यतीपातेष्वष्टकासु विशेषतः।
एषु श्राद्धमकुर्वाणो नरकं प्रतिपद्यत इति ।

एवमनयैव दिशा गुणान्तरसम्बन्धेऽप्यूहनीयम् ।

तथा विष्णुपुराणे

“प्रधौ सिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालः स परः पितृणा नैवाल्पपुण्यैर्छप लभ्यतेऽसौ ।
झाले धनिष्ठा यदि नाम तत्र भवेनु भूपाल तदा पितृभ्यः।