पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
श्राद्धसारे श्राद्धदेशः

गोकणं गजकर्णं च तथा च पुरुषोत्तमः ।
एतेषु पितृतीर्थेषु श्रद्धमानन्त्यमश्नुते ।
अर्जुनं त्रिसुरेशं च सिद्धेश्वरमत परम् ॥
श्रीशैलं शङ्करं तीर्थं नरसिहमतः परम् ।
महेन्द्रं च तथा पुण्य तथा श्रीरङ्गसङ्कितम् ।
तुङ्गभद्रा नदी पुण्या तथा भागीरथी सरित् ।
रामेश्वरं कृष्णवेण कावेरी वञ्जुला नदी ।
सेतुबन्धं तथा तीथे यत्र रामेश्वरो हरिः ।
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम् ।
कायावरोहणं नाम यत्र चर्मण्वती नदी ।
तीर्थं त्रैयम्बकं नाम सर्वतीर्थमहत्फलम् ।
गोमती बहुला तद्वत् तीर्थ मानसरोवरम्" इति ते ।
इति श्राद्धदेशः ।



अथ निषिद्धदेश अभिधोयन्ते।



तत्र विष्णु –

चातुर्वर्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
स म्लेच्छदेशो विलेय आर्यावर्तस्ततः परम् ।
ततश्च म्लेच्छदेशो वज्’ इति सूचितम् ।
“म्लेच्छदेशे तथा रात्रौ सन्ध्यायां च विशेषतः ।
न श्राद्धमाचरेत् प्राज्ञो म्लेच्छदेशं न च व्रजेत् ।

इति शङ्खस्मरणात् । तथा तत्र वृत्यनुसन्धानेन गमने दोपोऽ