पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
नृसिहप्रसादे

कृत्रिमायां वेदिकादौ, पारक्यासु परपरिगृहीतासु । ताश्च गृह
गोठारामादयः न पुनस्तीर्थादिस्थानानि ।
आदिपुराणे च

‘अट्वो पर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रहः इति ।
‘घनानि गिरयो नद्यस्तीर्थान्यायतनानि च ।
देवास्तं च गतश्च न स्वामी तेषु विद्यते । इति ।

अथ श्रद्धप्रदेशन तीर्थक्षेत्रविशेषेषु कृतं श्राद्धमतिशयफलदं भ

वतीत्यवसीयते ।
तथाच व्यास

“पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च।
महोदधौ प्रयागे च काश्या च कुरुजाङ्गले ॥

तथा देवलः --


श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती ।
कुरुक्षेत्र प्रयागं च नैमिषं पुष्कराणि च ।
नदीतटेषु तीर्थेषु वनेषु पुलिनेषु चेति ।

शत्रु

‘गङ्गायमुनयोस्तीरे पयोष्शयमरकण्टके ।
नर्मदाबाहुदातोरे च भृगुतुङ्ग हिमालये ।
गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा ।
सनिइयां गयायां च दत्तमक्षयतां व्रजेत् ॥