पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
श्राद्धसारे ब्राह्मणपूजाप्रकारः

‘पायं चैव नया चाघ्यं दत्र श्रादो प्रयोजयेत् ।।
शन्नो देवीति मन्त्रेण पश्वान्पित्र्ये प्रयोजयेत्

इति ब्रह्मनिरुक्तवचनान् । तत्र पाद्यादिदानं च नामगोत्रोचारण

पूर्वकं कार्यं तदाह मस्य –

‘‘नामगोत्रं पितृणान्तु प्रापक हव्यकव्ययोः’ इति ।

अर्चनं च देवानां पादमभृति शिरःपर्यन्त, पितृणां शिरः

प्रभृति पादपर्यन्तमिति विशदयिष्यते अग्रे । पादप्रक्षालनोचरं
पूर्ववदुपवेशनम् । तदाह मनुः

“शासनेषु च क्र्तेषु बहिष्पत्सु पृथक् पृथक् ।

उपस्पृश्योकादकान्सम्यक् विप्रास्तानुपवेशयेत्’ इति । तथा

सुमन्तुरपि

दर्भपाणिद्विराचम्य लघुवासा जितेन्द्रियः।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ।।
दक्षिणमवणे सम्यक् श्राचान्तान्प्रयतान्शुचीन् ।
आसनेषु विविक्तेषु सदर्भपूपवेशयेत् इति ।

तत्संख्या प्रागुक्तैव, तदाह योगी -

'वे दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम्’ इति ।

एवं मातामहानामपीति अतिदेशो दिनियमसंख्याविषयः ।

वैश्वदेविकं कर्म श्राद्धार्थमाह्यानुष्ठेयं तन्त्रेण वेत्यभिप्रायेण तन्त्रं
वा वैश्वदेविकमित्युक्तम् ।

‘तथा मातामहश्राद्ध वैश्वदेवसमन्वितम् ।