पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
नृसिहप्रसादे

अयमत्र क्रमः—विश्वेदेवार्थब्राह्मणहस्ते जलं विष्टराथे कुशां
श्वश्च युग्मान् द्विगुणितानासनार्थं च दक्षिणतो दत्वा विश्वान्देवाना
वाहयिष्ये इति ब्राह्मणान् पृष्टा शाखाहयेति ब्राह्मणैरनुज्ञातो दक्षिणं ।
जान्वालभ्य यथोक्ते नामनी समुच्चार्य विश्वे देवास शागत शृणु
ता म इढी० ह्वम् । एद बर्हिर्निषीदत । विश्वे देवाः शृणुतेमQ०
हवं मे येऽ अन्तरिक्षे य ऽउप द्यवि धु । ये अग्निजिहा उत वा
यजत्राऽ ग्रामद्यास्मिन् बर्हिषि मादयध्वम्”। विश्वे देवाः शृणुतेय
नया च |श्रागच्छन्तु महाभागा इति स्मार्तमन्त्रेण च ।
दक्षिण यज्ञोपवीती सत्यवाक् दक्षिणपादादिमस्तकान्तमक्ष
तान् विकिरेत् । इदं चात्र छन्दोगाना विशेषतो द्रष्टव्यम् । तन्मते
श्रोषधयः समवदन्त इत्ययमपि मन्त्रो जयः।
यद्यपि गुरुणा प्रतिश्राद्धं द्वयोर्दूयोर्नामनी उक्ते तथापि विश्वे
देव इत्यादिप्रन्त्रेषु बहुवचनश्रवणात् पक्षान्तरे च कारणादर्श
नात् तेषामावाहनादौ बहुवचनमेव नामसङ्कीर्तने ज्ञेयम् । ततोऽन
न्तरं तैजसादिभाजने कुशयुग्मान्तहिते शन्नो देवीरभिष्टय इत्यन
यचं उदकं निक्षिप्य यवोऽसि धान्यराजो वेत्यादिमन्त्रेण यवान्,
ततो गन्धपुष्पाणि च तूष्णीमेघ निक्षिप्य धूपं च प्रदश्यनन्तरमर्च
पात्रां पवित्रान्तर्हितेषु ब्राह्मणहस्तेषु या दिव्या आपः पयसेत्यादिम
न्त्रेण विश्वे देवा इदं चाघ्यंम्, इत्यध्योदकं विनिक्षिपेत् । छन्दोगाश्चेत्
यवोऽसि सोमदेवत्यो गोसवो देवनिर्मितः इति मन्त्रं पठेयुः। तथा च
योगियाज्ञवल्क्यः

यवैरभ्यवकीर्याऽथ भाजने सपवित्रके ।