पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
नृसिहप्रसादे

पार्वणममावास्यश्राद्धे, काम्यं नक्षत्रेषु फलोद्देश्यकं, अभ्युदयश्राद्धे
पुत्रोत्पत्तितड़ागारामदेवताप्रतिष्ठादिषु विहितम् , अष्टकाश्राद्धमष्टम्यां
विहितं, एकोद्दिष्टं सपिण्डीकरणम् , अथवा एकोद्दिष्टं मुख्यमेव ।
आद्यचतुष्टये अग्नौ होमः अन्ये पाणाविति । नन्वग्नौकरणं कथं
पाणौ तत्राम्यभावात् , सत्यम् अस्ति हस्तेऽष्पग्निः।

अनस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु चैव कुशस्तम्बे अग्निः कात्यायनोऽब्रवीत्

इति शख़स्मरणात् । तस्मात्

“श्रम्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
पर्युक्ष्य दर्भानास्तीर्यं यतो ह्यग्निसमो द्विजः।

इति वचनात्पाणाधषि श्रश्नौकरणं कर्तव्यम् । इदं चोपवीतिना

कायम् ।

“अग्नौकरणहोमस्तु कर्तव्य उपवीतिना ।
प्राङमुखेनैव देवेभ्यो जुहोतीति श्रुतिः स्मृतिः ।
अपसव्येन वा काय दक्षिणाभिमुखेन वा ।

निरूष्य हविरन्यस्मै अन्यस्मै नहि हूयते।" इत्यादि वाक्यं तु

परमकोपन्यासपरम् , अन्यथा वाक्यान्तरविरोधात् इत्यलमनेन । त
स्मादनग्निः पाणावग्निकरणं कुर्यात् ।
तदाह कात्यायनः --

पित्र्ये यः पङ्किमूर्धन्यः तस्य पाणाघनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्" इति ।

ननु बाहुल्येन विप्रपाणावित्यविशेषश्रवणेऽपि