पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदाह योगी

सर्वमन्नमुपादाय सतिल दक्षिणामुग्बः ।
उच्छिष्टसन्निधौ पिण्डान् दद्यादै पितृयज्ञवत्” ।

तत्र प्रचेताः

‘‘अरत्निमात्रमुन्मृज्य पिण्डांस्तत्र प्रदापयेत् ।
अथोपस्पृश्यतां वापि नाप्नुवन्ति न विन्दतः इति ।

अत्र द्वौ पक्षौ वागुरिसम्मत ।

fबद्धखुष्टिकरोऽनिररत्निरकनिष्ठिक' इति

भास्कराऽन्यथाव

‘पात्राणां बाहुमात्रेण पिण्डदानं विधीयते ।
कराभ्यामुल्लिखेत् स्फ्येन कुशैर्वापि मद् द्विजः अयं तृतीयः ।

अत्र चतुर्थः

‘पितृब्राह्मणतः स्थानादग्रतस्त्रिष्वरत्निषु ।
उच्छिष्टं तद्विजानीयानोच्छिष्टासनसांद्र " इति ।

एतेषु चतुर्वेपि पक्षेषु मध्ये देशकालाद्यपेक्षया व्यवस्था ।

अत्रिः

“पितृणामासनस्थानात् अग्रतस्त्रिष्वरत्निषु" इति ।

अत्र पक्षद्वयम् पूर्वमेव पिण्डदानमित्येके भोजनोचरमिति द्वि

तीयम् ।

“पिण्डनिर्वपणं केचित् पुरस्तादेव कुर्वते ।
भुञ्जानेषु तु विप्रेषु भुक्तवत्सु तथाऽपर' इति स्मरणात् ।