पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
नृसिहप्रसादे

पैठीनसः

‘वृन्ताकनालिकापौतोककुसुम्भाश्मन्तकावेति ।।
शाका न भक्ष्यः । वृन्ताकनिषेधस्तु श्वेतवृन्ताकविषयः ।
“कण्डूरं श्वेतवृन्ताकं कुम्भाण्डं च विवर्जयेदिति

देवलस्मरणात् । कण्डूरा प्रावृषेणी तस्याः फलं कुम्भाण्डं ।

कुम्भवद्वर्तुलं तृचालाबुसदृशम् ।
तथा स्मृत्यन्तर

“कुम्भाण्डं महिषीक्षीरमाढक्यो राजसर्षपाः ।
चणका राजमाषाश्च नन्ति श्राद्धमसंशयम् ।
पिण्डालुकं च तुण्डीरं करमर्दश्च कालिका ।
कूष्माण्डं बहुबीजानि श्राद्धं दत्वा व्रजत्यधः ॥

करमर्दः सुषेणः, बहुबीजानि बीजपूरादीनि द्रव्याणि नित्य

भोजनेऽप्रतिषिद्धान्यपि श्राद्धे न देयानि ।

"क्षीरादि माहिषं वज्र्यमभक्ष्यं तच्च कीर्तितमिति

षत्रिंशन्मतवचनात् ।

‘गोमहिष्याजानामनिर्दशाहानां पयो न पेयम् ।

तथा गौतमोऽपि

‘स्यन्दिनी-यमम्-सन्धिनीनां चेति क्षीरं न पेयमिति ।

स्यन्दिनो स्वयमेव क्षीरं प्रस्यन्दमाना प्रस्यन्दमानयोनिर्वा ।

यमः प्रतयमला ।